Journal of Advances in Developmental Research

E-ISSN: 0976-4844     Impact Factor: 9.71

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 16 Issue 2 July-December 2025 Submit your research before last 3 days of December to publish your research paper in the issue of July-December.

भारतीयदृष्ट्या विश्वबन्धुत्वस्य शक्तिः मानवकल्याणाय

Author(s) Dr Milind vyas
Country India
Abstract धर्मः मानवजीवनस्य न केवलं प्रारम्भिकः परिचयः, अपितु सः तस्य आचरणस्य, चिन्तनस्य, मूल्यनिष्ठायाः च अधिष्ठानमपि अस्ति। धर्मबोधः आत्मानं केवलेन मुक्तिं प्रति नयति, किन्तु सः समाजस्य समष्टिसंगठनं, सह-अस्तित्वं च सुसंस्कृतं करोति। अस्मिन् सन्दर्भे धर्मः नैतिकशक्तेः, आत्मबलस्य च समुन्नयनं करोति, यतः केवलं बलवानः एव, नैतिकतः जागरूकः च, परहितं चिरकालपर्यन्तं साधयितुं शक्नोति।
यदा धर्मः स्वार्थनिवृत्तिम्, समत्वबुद्धिं, विश्वकल्याणदृष्टिं च समाहितं करोति, तदा सः "विश्वबन्धुत्वस्य शक्तिः" इति रूपेण प्रतिष्ठाम् उपनयति। एषा दृष्टिः एव भारतीयदृष्ट्या जगति अद्वितीयं योगदानं अस्ति। "एकोऽहं बहुस्याम्", "सर्वे भवन्तु सुखिनः", "लोकाः समस्ताः सुखिनो भवन्तु" इत्येते मन्त्राः अस्य मूलमूल्यानि प्रकाशितवन्तः।
"एषा मे, एषा तव" इति सीमाबद्धबुद्धिः तु मोहबन्धनं सूचयति; परन्तु यदा मनुष्यः आत्मनं समस्तजीवेषु अनुभूतुं आरभते, तदा तस्य धर्मः समस्तजीवकल्याणाय परिवर्त्यते। एवं दृष्ट्वा, भारतीयचिन्तने धर्मः केवलं कर्मकाण्डनिष्ठः न, अपि तु व्यावहारिकः लोकसेवा-प्रधानः च अस्ति।
विश्वबन्धुत्वं, यः अस्मिन शोधपत्रे प्रमुखं विषयः, सः केवलं विचारसंगतं मूल्यं न, अपि तु भारतीय संस्कृतेः परमार्थदृष्ट्याः जीवनदर्शनमपि। धर्मसमन्वितं लोकव्यवस्था, यत्र व्यक्ति, राष्ट्र, समाजः च परस्परं निर्भराः सन्ति, एव लोककल्याणस्य, शान्तेः, समत्वस्य च सिद्धिपथः भवति।
अतः, अस्माकं निष्कर्षः एषः यत् – धर्मेनान्वितं विश्वबन्धुत्वं, न केवलं भारतीयमूल्यानां सारं वहति, अपि तु सम्पूर्णमानवजातेः स्थायित्वाय, समृद्धये च अवश्यंभावी मार्गदर्शकशक्तिः अस्ति।

कूटशब्द : संस्कारः संस्कृतिः मानवता भारतीयसंस्कृतिः नीतिः मानवीयतत्वम्




प्रस्तावना
श्रेष्ठानां पुरुषादिक्रमेन नीतिनामभ्यासः एव संस्कारः, तथैव नीतिवान् संस्कारवान् पूर्वजकृतियुक्तः जनः एव चरित्रवान्। अपि च संस्कारजनिकानां नीतिनां परिचालनार्थं पुरुषादिक्रमेन स्वजनानां कृते स्वजनैः निर्मितः तन्त्रः एव संसकृतिः। नीतिः तु मानवैः मानवानां कृते एव निर्मियन्ते। नीतिः तथा चिन्तनीया यत्र व्याक्तिजीवनस्य कौटुम्बिकजीवनस्य समाजजीवनस्य राष्ट्रस्य वैश्विकजागतः च स्वं स्वं परिमण्डले आत्मन्नोतेः परिपूर्णतया अवकासः तिष्ठेत्। यतः एते परस्परविच्छिन्नाः पृथक्सत्ववन्ताः चोदपि, एते पारस्परिकवन्धनेन सबत्रे मणिगणः इव ग्रथिताः। तत्र सा एकतायाः सूत्रमेव ब्रह्मयचैतन्य। एकत्वे नेकविधरूपभेदतायाः वोधः, सर्वभूते ईश्वरस्य अनुभूतिः। पुनश्च यथा नीतिविरुद्धाचरणं यथा अनैतिकता नीतिभ्रष्टता नैतिकस्क्षालनम् वा एव, तथैव संस्कारस्य विरुद्धाचरणं अपि संस्कारहीनता एव । चरित्रस्य विरुद्धाचरणं अपि तथैव चरित्रहीनता चरित्रभ्रष्टता एव। एतादृशेषु अवसरेसु अभाववत् कस्य चित् पदार्थस्य कल्पना वृथा, यथा दुर्णीतिः दुःष्चरित्रम् वेति । एतेषां अस्तित्वमेव आकाशकुसुमवत् अलीकम् । जना उन्मार्गगाः जनाः आत्मरक्षार्थं तथाविधं वादं कदाचित् उत्थापयन्ति । कदाचित् तत्तत् परिप्रेक्षे केषाञ्चनानां नीतिहीनता एव समाजस्य कृते क्लेशस्य कारणम् भवति । अन्यत्र केचन तामेव नीतिहीनतामेव नैतिकता इति प्रमाणयितुं पौनपुन्येन तर्कं समुत्पादयन्ति । किन्तु जनानां स्वत्वं रक्षार्थम् अप्रयोजनीयाः कालातीताः संस्काराः नीतयः जनैः परित्यज्यन्ते, तादृसस्य परिवर्तनस्य नायकाः एव महापुरुषः वा।

संस्कारितव्यक्तिः एव धर्मस्य आधारः
सर्वभूते हिते रता स मे प्रियः इति स्पष्टतया गीतायां भगवता स्वयं घोषितं। अपि च चरित्रं मनुष्यस्य स्वकीयवैशिष्ट्यमेव। रामायणस्य आरम्भे बाल्मिकीना “चारित्रेण च को युक्तः” इति पृष्टे सति, नारदस्य प्रत्युत्तरं “इक्ष्वाकुवंशप्रभवौ रामो नाम जनै । : श्रुत : " इति आसीत्।1 नायकीयगुणस्य आद्यत्वे चरित्रमिति विचार्यते खलु। तथैव चरित्रवान् स्वभावसुन्दरं वस्तुनां कृते संस्कारस्य अपेक्षा नैव वर्तते, वस्तुतः तस्य शृङ्गारस्य अपेक्षा अपि न भवति। यथा मुक्तारत्नस्य निकषकपोले शणासकरम् अवघर्षणं नोपायुक्तम् इत्यपि सत्यम्। स्वभावसुन्दरवस्तुः न संस्कारमपेक्षते । मुक्तारत्नस्य शणाशमघर्षणं नोपायुज्यते ॥ 2 कवि कालिदाशः अपि तथैव उक्तवान् खलु "किमिव हि मधुराणां मण्डनं नाकृतीनाम्।" तत्र विचारणीयं वर्तते यत् चारित्रिक उत्कर्षता नाम अतिसारल्यं न, तथा भावनं तु मुर्खतायाः नामान्तरणम्। विष्णुगुप्तेन स्मारितवान् तथैव खलु यत् कर्तया कुशलैः भाव्यम्। -
नात्यंतं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् ।
चिद्यन्ते सरलास्त्र कुब्जास्तिष्ठन्ति पादपाः ॥
किन्तु तथापि व्यक्तित्वस्य स्क्षलनं तु स्वाभाविकी एव । अतः मनुष्यस्य कृते संस्काराणां आवश्यकता वर्तते । संस्कारशब्दस्य नैके पर्यार्थाः भवन्ति। यथा संस्करणं, परिष्करणं, विमलीकरणं, विशुद्धीकरणम् चेति। यथा मलिनवस्तुः क्षाल्य शुद्धं, पवित्रं च क्रियते, यथा सुवर्णः अग्नौ दैहयित्वा शुद्धः क्रियते च, तथैव संस्कारैः जन्मजन्मान्तरेभ्यः सञ्चिताः मलरूपिनिकृष्टकर्मसंस्काराः दूरी करनीयाः भवन्ति। अत एव भारतीयानां मणिषायां न केवलं शिशोः गर्भप्राप्तेः पूर्वतः जन्मपर्यन्तं, अपि च ततः वृद्धे सति मृत्युपर्यन्तं संस्काराः आचर्यन्ते । संस्कारेषु नामकरणादि केचन वैयक्तिकः, विवाहादि केचन पारिवारिकः कौटुम्बिकः वा, तथैव केचन सामाजिकः अपि वा । आश्रमेषु बाणप्रस्थतः सन्यासोपि सामाजीकाश्रमः यत्र ब्रह्मचर्याश्रमः तु व्यक्तिविकाशाय, गार्हस्थाश्रमः निश्चप्रचं कौटुम्बिकम् । वस्तुतः नीतिवान् संस्कारवान् चरित्रवान्, प्रज्ञावान् जनः एव सर्वोत्कृष्टः गुणानाम् आधारः। सैव व्यक्तिः कर्ता, भोक्ता, ज्ञाता च । तथैव पुरुषादिक्रमे परीक्षितानामाचरणैः : युक्तः जनः एव चरित्रेन युक्तः इत्यपि सुविदितः। तत् चरित्रमपि वैयक्तिक- सामाजिक-पपारिवारिक- नि च भवन्तिजागतिका - राष्ट्रिय, यतः तेषामपि पृथक् सत्वा भवन्ति ।

सामर्थ्यमूलकं धर्मपालनं च राष्ट्रोन्नतेः आधारः
सत्यं धर्मं च रक्षणीयं पालनीयं च — एषा भारतीया दृष्टिः आदिकाले एव प्रतिष्ठिता आसीत्। धर्मः यदि स्वयमेव स्थितप्रज्ञः स्यात्, चेत् कुरुक्षेत्रे यथा महायुद्धं जातम्, तादृशं रक्तस्नातं इतिहासं न सञ्जातं स्यात्। किन्तु, धर्मः केवलं ग्रन्थेषु न स्थापनीयः, अपितु जीवनव्यवहारस्य आधारतया सन्निधेयः भवितव्यः।
अद्यत्वे कश्चन विपरीतः प्रवृत्तिपन्था दृश्यते — यत्र असत्यं, अधर्मः, आत्मग्लानिपूर्णं इतिहासविपर्यासं च प्रसारितुं यत्नः क्रियते। अस्माकं मातृभूमेः, सांस्कृतिकविरासतस्य च विषये दुर्नामप्रचारैः केचन निन्दकाः नवयुवानां मानसवृत्तिं मोहयन्ति। एते भ्रान्तिप्रचाराः उत्तरपीढीनां आत्मबलं दुर्बलयन्ति, स्वाभिमानं च लुप्तयन्ति।
अतः, उत्तमत्वस्य, नैतिकबलस्य च अन्वेषणाय केवलं परानवलोकनं न युक्तम्। परमुखापेक्षायाः परित्यागः, स्वावलम्बनस्य ग्रहणं, च अत्यावश्यकं। राष्ट्रे स्वीयशासनस्य प्रतिष्ठापनं, आत्मबलस्य विकासः, च अतीव महत्त्वपूर्णं भवति।
भारतेन स्वतन्त्रताप्राप्त्यनन्तरं अपि आत्मोन्नत्यै बहूनि दशकम् अपेक्षितानि। यद्यपि पंचसप्ततिवर्षपर्यन्तं समयः यापितः, अद्य भारतः समृद्धदेशानां नेतृत्वे 'जि-२०' मध्ये अग्रस्थानं प्राप्तवान् अस्ति।
सः भारतः, यः स्वधर्मे स्थितः, स्वसामर्थ्ये स्थिरः च, अधुना राष्ट्रमण्डले स्थायित्वं प्राप्तुं समर्थः जातः। अस्य आधारः केवलं आर्थिकबलं न, अपितु धर्मनिष्ठा, नैतिकता, च राष्ट्रगौरव एव अस्ति।
एतस्य कारणं तु शक्तिः एव। राजनीतिशास्त्रानुसारतः सा शक्तिः प्रभूजा उत्साहजा मन्त्रजा च भेदात् त्रिविधा इति । तत्र -
1. प्रभुशक्तिः- प्रभुत्वे साधकत्वात् कोशदण्डौ प्रभुशक्तिः ।
2. उत्साहशक्तिः स्वशक्त्या विस्फुरणम् उत्साहशक्तिः। उत्साह एव शक्तिर्बलम् । राज्ञां विक्रमहेतौ बले। अपि च उत्साहेन सिद्धन्ति कार्यानि नहि मनोरथै। सत्यं खलु निरुत्सास्य कुतो बलं खलु ।
3. मन्त्रशक्तिः सन्ध्यादीनां सामादीनाञ्च यथावस्थानं मन्त्रशक्तिः। राजनीतिशास्त्रे मन्त्रशक्तिर्नाम मन्त्रणाशक्तिरित्युच्यते।

अस्माकं नैतिकतायां पौरुषं जगतकल्यानार्थं
भारते सम्प्रतिः शक्तित्रयेनापि प्रावल्यं दरिदृश्यते । अपि च - कौटिल्यस्य अर्थशास्त्रे मण्डलसिद्धान्तस्य वर्णनं कृतम् । मण्डलतत्वस्य सरलीकृतः अर्थः "परराष्ट्रनीतिः" इति। राजमण्डले १२ प्रकाराः देशाः उल्लिखिताः।” एतेषां सर्वेषां परस्परं सम्बन्धाय तेन मण्डलसिद्धान्तं दत्तम्। तेषु केचन मित्रानि अपरस्तु अरयः च। एतादृशस्य विभाजनं तु राजनैतिकमेव । सांस्कृतिकं भारतं तु वसुधैवकुटुम्वकम् इति चिन्तयति। एतत् तु ऐतिहासिकसत्यमेव यत् परभूमिं परसम्पदं अत्मस्यात् कर्तुं भारतेन परराज्यम् आक्रमणं कदापि न कृतम् । तत्र अयंनिज परवेति गणना तु लघुचेतषामेव । ' भगवता मनुना अस्यैव देशस्य नागरिकानां कर्तव्यविषये कदाचित् उक्तं—
“एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः।।”
उल्लेख्यं यत् अत्र पुरुषादिक्रमेणप्राप्तस्य ज्ञानस्य वैश्विकवितरणस्य आग्रहः विद्यते ।
नैतिकनेतृत्वं समाजे स्वाभाविकतया राष्ट्रियचेतनातः निर्मितं येषां राष्ट्रनिष्ठः शक्तिरूपेण निर्मितं भवति, वसतुतः राजनैतिकशक्तिः नास्ति, आर्थिकशक्तिः अपि नास्ति। अस्य नेतृत्वस्य केवलं स्वत्वस्य भावः, समाजस्य प्रति कर्तव्यस्य भावः एव भवति । "अयं निजो परोवेति गणना तु लघुचेतसाम् । उदारचरितानां तु वासुधैव कुटुम्बकम्।।” अर्थात् इदं स्वकीयं अथवा इदं परः इति मानसिकता तु लघुचित्तसूचकः । उदारस्य कृते सर्वं जगत् कुलवत् । अतः व्यक्तिराष-समाज-कुटुम्ब-टू- चराचराः सर्वे एव नीत्या एकसूत्रता । तेषां अवस्थानं केचन -विश्व पृथक् पृथक् वृत्तवत् न, अपि तु कश्चित् क्रमवर्धमानं वर्तनशीलम् अखण्डमण्डलवत् एव । यस्य मण्डलस्य आरम्भे व्यक्तिः भवति, तस्यैव सर्पिलमण्डल्यस्य द्वितीये आवर्ते कुटुम्बाः बान्धवाः वा विद्यन्ते, क्रमशः आवर्तयन् सैव परिमण्डलः समाजः राष्ट्र राजमण्डलः चराचर जगत् परिभ्रमन् परमब्रह्मे विलीयते । “अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।” गुरवः तस्यैव अखण्डमण्डलस्य वोधं जागरयन्ति सुचीरात्। तस्मात् उच्चते खलु “जीवब्रह्मैव नापरः”” अत्र तु सर्वभूते परमेश्वरत्वम् अङ्गिकृयते। लोकक्षेम मंत्ररूपेन सुचिरादेव वयं सर्वे भवन्तु सुखिनः इति प्रार्थयामः। 10 नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात्।
भारते कर्माधारेणैव वर्णाश्रमः व्यवस्था ।. कदाचित् अद्यैतसिद्धान्तस्य ध्रुवनक्षत्रशङ्कराचार्यस्य विषये काचित् प्रचलत्कथा विद्यते। तदा शङ्करभगवान् काश्यां विचरति। तेनापि शङ्करेन कदाचित् समाजविधिना प्ररिततया कस्मैचित् चण्डालाय असपृशयतावोधेन अपसारणादि वाक्यानि उक्तवान् प्रायः। तदा तेन चण्डालेन सः आचार्यः चकिततया उद्बोधितः मनुष्येसु अद्वितीयतया एकस्यैव परमेश्वस्यैव अवस्थानं, नान्यत्। अतः कुतः अस्पृशयतायाः वोधः। अपि च
"जन्मना जायते शूद्रः संस्काराद् द्विज उच्यते।
वेदपाठाद् भवेद् विप्रः ब्रह्म जानाति ब्राह्मणः।।'
अनुसूचितजातिव्यवस्था तात्कालिकप्रयोजनमव । काले उत्पन्नं प्रयोजने सत तसय समापनपि करणियमिति संविधानसिद्धान्तः।
धर्माधारिता समाजव्यवस्था एव आस्माकं स्वतन्त्रतायाः आधारः
पूर्वं भारतात् वहिः केषुचित् क्षेत्रेषु केचन जनाः आसन् ये आत्मानं शेषमानवजातेः समं न मन्यन्ते स्म, किन्तु स्वस्य पृथक्परिचयः उपस्थापयितुमैच्छत्, तेषां स्वकीयां सत्तां) Identity) प्रवृत्तिं सिद्धान्तं च एन्यस्वतन्त्रानामुपरि आरोपयितुं स्थापयितुम् वा इच्छन्ति स्म, आवश्यकतायां खड्गस्य सामर्थ्येन वा साधयेत् । अस्माकं देशे तु न तथा। जगतोपकारकन्यायाः अस्माकं चिन्तकाः चिरं प्रदत्तवन्तः। कस्यापि एकस्य राष्ट्रस्य, एकस्य वा समुदायस्य, कस्यापि वा एकस्य निर्दिष्टस्य राज्यस्य वा नाम तस्मिन् न उल्लिखितम्। केवलं मानवदर्शनानि एव तानि । भगवान् मनुः अपि अस्माकं धर्मशास्त्रं हिन्दुधर्मशास्त्रं इति उक्ता न आहूतवान्। मानविकधर्मशास्त्रं अस्माभिः स्वीयः पृथक् किमपि परिचयरक्षयितुं न चिन्तितम्। वयं सम्पूर्णेन मानवतायाः सह एकात्मम् इति आत्मानं जानामि स्म। अस्माकं प्रार्थना आसीत् - "पुमान् पुमांसं
परिपातु विश्वत।:”वा इत्यर्थः। 'पुरुषकारयुक्तः पुरुषः सर्वथा पुरुषं पातु रक्षतु
अस्माकं पूर्वजाः राज्यहीनसमाजं आदर्शं मन्यन्ते स्म। पश्चिमे वामपक्षिणः अपि राज्यरहितसमाजम् आदर्शरूपेण स्वीकृतवन्तः। परन्तु एतावता ते तत्र गन्तुं मार्गं चिन्तयितुं न शक्तवन्तः। अत एव ते अवदन् यत् प्रथमं " सर्वहाराणां शैरतन्त्रं " निर्मातव्यं, ततः तत् शैरतन्त्रं एव शासनरहितसमाजस्य निर्माणं करिष्यति । अर्थात् प्रथमं सत्तायाः केन्द्रीकरणं ततः सत्तायाः सम्पूर्णं विकेन्द्रीकरणं। अस्मिन् सिद्धान्ते असङ्गतिः स्पष्टा अस्ति । अस्माकं पूर्वजाः अपि तथैव आदर्शसमाजस्य वर्णनं कृतवन्तः यत्— “न राज्यं न च राजासीत् न दाण्ड्यो न च दाण्डिकः।” अर्थात् राज्यसंस्था शासक संस्था वा नास्ति, तथा च राज्याधिकारिणः. प्रशासनस्य अधिकारिणः नासीत् । समाजे कोऽपि दण्डनीयः नासीत्, न दण्डकः अपि । एतादृशी आदर्शस्थितिः निर्मिता कथम्? उत्तरम् अस्ति-
“धर्मेणैव प्रजाः सर्वाः रक्षन्ति स्म परस्परम् ॥'
समाजस्य सर्वे जनाः धर्मस्य आधारेणैव परस्परं रक्षन्ति स्म। परस्परं रक्षणस्य अयं संस्कारः सर्वैः प्राप्तः धर्मेनैव । तस्यैव संस्कारस्य पुनःस्मरणं कारयति आधुनिकरक्षाबंधनोत्सवः। समाजे सर्वे जनाः परस्परं रक्षन्ति एतेन । नृसिंहावतारे नरानां
सिंहत्वेन आत्मानं प्रकाश्य जनानां जनसमाजस्य वा गणतन्त्रस्य वा जयकारः उद्धेषितवन्तः पुराणकाराः।

उपसंहारः
समर्थेन एव परकल्यानचिन्ता करणीया, दुर्वलस्य परोपकारचिन्तनं तु अत्मघाततुल्यम्। दुर्बलेन तु आत्मरक्षणचिन्तनेन रात्रिजागरणीयं भवति। अतः एतत् नित्य सिद्धं यत् नोतृत्वं गुरुत्वं कतृत्वं वा अर्जनीयं भवति, कस्यापि कृपया दानेन वा न लभ्यते । भगवद्गीतायां स्पष्टतया उक्तं यत् - "शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्।।” शौर्यं, तेजवत्वं, धृतिः, दाक्ष्यं (सामर्थता), युद्धात् न पलायनं, दानं, ईश्वरभावः दैवीभावः),) एतानि सर्वाणि क्षत्रियस्य स्वाभाविककर्माणि सन्ति । अतः उच्चते खलु "नाभिषेको न संस्कारः सिंहस्य क्रियते वने। नित्यमूर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता॥” वने पशवः सिंहं न अभिषिञ्चन्ति न संस्कारं कुर्वन्ति । शौर्येण प्राप्तः सत्त्वः स्वयमेव पशुराजपदं प्राप्नोति इति। अतः एतत् नित्य सिद्धं यत् नोतृत्वं गुरुत्वं कतृत्वं वा अर्जनीयं भवति, कस्यापि कृपया दानेन वा न लभ्यते । आत्मगलानीकराः अपप्रचाराः उत्तरप्रजन्मान् अवसादयन्ति । शक्तिः प्रभूजा उत्साहजा मन्त्रजा च भेदात् त्रिविधा इति। राजमण्डलेषु तेषु केचन मित्रानि केचन एव अरयः। एतादृशस्य विभाजनं तु राजनैतिकमेव । सांस्कृतिकं भारतं तु वसुधैवकुटुम्बकम् इति चिन्तयति। अस्माकं कर्तव्यं भगवता मनुना निर्घारिता चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः - इति । इदं स्वकीयं अथवा इदं परः इति मानसिकता तु लघुचित्तसूचकः । उदारस्य कृते सर्वं जगत् कुलवत्। अतः व्यक्ति-समाज-कुटुम्ब - चराचराः सर्वे एव नीत्या एकसूत्रिता। तेषां अवस्थानं - विश्व-राष्ट्र केचन पृथक् पृथक् वृत्तवत् न, अपि तु कश्चित् क्रमवर्धमानं वर्तनशीलम् अखण्डमण्डलवत् एव । यस्य मण्डलस्य आरम्भे यदि व्यक्तिः भवति तर्हि तस्यैव सर्पिलमण्डल्य द्वितीये आवर्ते कुटुम्बाः बान्धवाः वा विद्यन्ते, क्रमशः आवर्तयन् सैव परिमण्डलः परमब्रह्मे विलीयते। " अखण्डमण्डलाकारं व्याप्तं येन चराचरम्। भारते कर्माधारेणैव वर्णाश्रमः व्यवस्था । अनुसूचितजातिव्यवस्था तात्कालिकप्रयोजनमव। अस्माकं पूर्वजाः आदर्शसमाजस्य वर्णनं कृतवन्तः यत् - धर्मेणैव प्रजाः सर्वाः रक्षन्ति स्म परस्परम् । सर्वभूते हिते रता समे प्रियः इति कदाचित् गीतायां भगवता स्वयं घोषितं। अपि च चरित्रं मनुष्यस्य स्वकीयवैशिष्ट्यमेव । श्रेष्ठानां पुरुषादिक्रमेन नीतिनामभ्यासः एव संस्कारः, तथैव नीतिवान् संस्कारवान् पूर्वजकृतियुक्तः जनः एव चरित्रवान्। अपि च संस्कारजनिकानां नीतिनां परिचालनार्थं पुरुषादिक्रमेन स्वजनानां कृते स्वजनैः निर्मितः तन्त्रः एव संस्कृतिः। नीतिः तथा चिन्तनीया यत्र व्याक्तिजीवनस्य कौटुम्बिकजीवनस्य समाजजीवनस्य राष्ट्रस्य वैश्विकजागतः च स्वं स्वं परिमण्डले आत्मन्नोतेः परिपूर्णतया अवकासः तिष्ठेत्।

सन्दर्भ
1. श्रीमद्भागवद्गीता, परमेश्वरनारायणशास्त्री, राष्ट्रियसंस्कृतसंस्थान, नवदेहली, 2015
2. मनु, मनुस्मृतिः, सम्पा - शिवराज आचार्यः कौण्डिन्न्यायनः, चौखम्बा विद्याभवनम्, वारानसी, 2018
3. अश्टादशस्मृतिः, मिहिरचन्द्रः, राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, चतुर्थपुनःमुद्रनम्, 2018
4. बाल्मीकी, रामायणम्(प्रथमखण्डः), गीताप्रेस, गोरक्षपुर, 2015
5. एकादशोपनिषदः, सत्यव्रत सिद्धान्तालंकारः, विजयकृष्ण लखनपालः, नवदेहली, 2000.
6. पञ्चतन्त्रम्, स्यामाचरणपाण्डेयः, मतिलालबनारसीदासः, दिल्ली, 1975
7. ब्रह्मसूत्रम्, स्वामीविरेश्वरानन्दः, उद्बोधनकार्यालयः, कोलकाता, 1996
8. अभिज्ञानशकुन्तलम्, डाः अनीलचन्द्रवसु, संस्कृतवुकडिपो, कोलकाता, 2001
9. राधाकान्तदेव, शब्दकल्पद्रुमः, राष्ट्रियसंस्कृतसंस्थान, नवदेहली, तृतीयमुद्रणम् 2006.
10. शङकराचार्यः, ब्रह्मसूत्रशङ्करभाष्यम्, सम्पादकः हनुमानदास षट्मासत्री, चौखम्बा विद्याभवनम्, वारानसी, 2009.
11. मनु, मनुसंहिता, समपा- मानवेन्दु वन्दोपाध्यायः, संस्कृतपुस्तकभाण्डारः, कोलकाता
12. श्रीमद्भागवद्गीता, उद्वोदनकार्यालयः, कोलकाता, 1961
13. नारायणशर्मा, हितोपदेशः, नारायन राम आचार्य, चौखम्बा संस्कृ प्रतिष्टान, दिल्ली, 1951
(https://ia800101.us.archive.org/9/items/hitopadesha_hindi/hitopadesha_hindi. pdf)
Keywords .
Field Arts
Published In Volume 16, Issue 2, July-December 2025
Published On 2025-07-04
Cite This भारतीयदृष्ट्या विश्वबन्धुत्वस्य शक्तिः मानवकल्याणाय - Dr Milind vyas - IJAIDR Volume 16, Issue 2, July-December 2025.

Share this